- Shakti Online - https://shaktionline.org -

Ram’s Heart in Sanskrit

April 3, 2012 | Click here to print.

श्रीराम-हृदयम्

 

ततो रामः स्वयं प्राह हनूमन्त मुपस्थितम् ।

शृणु तत्त्वं प्रवक्ष्यामि ह्यात्मनात्मपरात्मनाम् ॥

 

आकाशस्य यदा भेदः त्रिविधो दृश्यते महान् ।

जलाकाशे महाकाशः तदवच्छिन्न एव हि  ।

प्रतिबिम्बाख्य मपरं दृश्यते त्रिविधं नभ: ॥

 

बुद्ध्यवच्छिन्नचैतन्य्मेकं पूर्णमथापरम् ।

आभासस्त्वपरं बिम्बभूतमेवं त्रिधा चितिः ॥

 

साभासबुद्धेः कर्तृत्वं अविच्छिन्नेsविकारिणि ।

साक्षिण्यारोप्यते भ्रान्त्या जीवत्व्ं च तथाबुधैः ॥

 

आभासस्तु मृषा बुद्धिः, अविद्याकार्यमुच्यते ।

अविच्छिन्नं तु तद् ब्रह्म विच्छेदस्तु विकल्पत: ॥

 

अवच्छिन्नस्य पूर्णेन एकत्वं प्रतिपाद्यते ।

तत्त्वमस्यादिवाक्यैश्च साभासस्याहमस्तथा ॥

 

ऐक्यज्ञानं यदोत्पन्नं महावाक्येन चात्मनो: ।

तदाविद्या स्वकार्यैश्च नश्यत्येव न संशयः   ॥

 

एतद् विज्ञाय मद्भक्तो मद्भावायोपपद्यते ।

मद्भक्तिविमुखानां तु शास्त्रगर्हेषु मुह्यताम् ।

न ज्ञानं न च मोक्षः स्यात् तेषां जन्मशतै रपि ॥

 

इदं रहस्यं हृदयं ममात्मनो

मयैव साक्षात् कथितं तवानघ ।

मद्भक्तिहीनाय शठाय न त्वया

दातव्य मैन्द्रादपि राज्यतोsधिकम् ॥

 

 


Article printed from Shakti Online: https://shaktionline.org

URL to article: https://shaktionline.org/rams-heart-in-sanskrit/

Copyright © 2010 Shakti Online. All rights reserved.